एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ क्षणु हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ क्षिणु च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ तृणु अदने॥ ५॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ डुकृञ् करणे॥ ६॥ करोति॥
"झलि क्ङिति चानुवर्तते" इति।
यथाक्रमं सनो झलश्च विशेषणम्? सूत्रोपात्तेन तु झल्ग्रहणेन न शक्यते सन्? विशेषयितुम्(), विशेषणं ह्रप्राधानं भवति, विशेष्यन्तु प्रधानम्()। "सञ्झलोः" इति चार्य द्वन्द्वः। तत्र सर्वेषां द्वन्द्वपदानां प्राधान्यादन्योऽन्यं प्रधानगुणभावो नोपपद्यते। सन्ग्रहणञ्चाक्ङिदर्थम्()।
"तदिह" इत्यादि।
यस्मात्? सनोतेः पक्ष इडागमस्तस्मात्? तत एव परो झलादिः सन्? सम्भवतीति तदर्थमेव सन्ग्रहणम्(), न तु जनखनार्थम्()।
न हि ताभ्यां परो झलादिः सन्? सम्भवति, तयोर्नित्यं सेट्त्वात्()। यद्येवं, सनोतेः सनि कृतार्थत्वादात्त्वं न स्यात्(), अन्यत्र निष्ठादौ झलादौ क्ङितिप्रत्यये "अनुदात्तोपदेशः" (६।४।
३७) इत्यादिना नलोपः स्यात्()? इत्यत आह--"अन्यत्र" इत्यादि।
सनोतेस्तनोत्यादिषु पाठस्यावकाशोऽन्यत्? तनादिकं कार्यम्()--"तनादिभ्यस्तथासोः"
२।४।७९ इत्यादि, आत्त्वविधौ च सन्ग्रहणस्यावकाशः--सन्(), सिषासतीति; इहोभयं प्राप्नोति--सातः, सातवानिति। अत्रानुनासिकलोपं बाधित्वाऽऽत्त्वं भवति विप्रतिषेधेन। ननु चोभयः सिद्धयोर्विप्रतिषेधो भवति, इह च "असिद्धवदत्रा भात्()"
६।४।२२ इत्युभयमप्यसिद्धम्(),
तत्? कुतो विप्रतिषेधः? इत्यत आह--"घुमास्थागा" इत्यादि।
कथं कृत्वा ज्ञापकम्()? हल्ग्रहणस्यैतदेव प्रयोजनम्()--हलादावीत्त्वं यथा स्यात्(), इह मा भूत्()--"आतोऽनुपसर्गे कः"
३।२।३ गोदाः,
कम्बलद इति यदि चात्र विप्रतिषेधः? इत्यत आह--"घुमास्थागा" इत्यादि।
कथं कृत्वा ज्ञापकम्()? हल्ग्रहणस्यैतदेव प्रयोजनम्()--हलादावीत्त्वं यथ#आ स्यात्(), इह मा भूत्()--"आतोऽनुपसर्गे कः"
३।२।३ गोदः, कम्बलद इति।
यदि चात्र विप्रतिषेधो न स्याद्? हल्ग्रहणमनर्थकं स्यात्()। अस्त्वत्रेत्त्वम्(), तस्यासिद्धत्वाल्लोपो भविष्यत। पश्यति त्वाचार्यः--भवतीह प्रकरणे विप्रतिषेध इति; यतो हल्ग्रहणं करोति। ननु चासति हल्ग्रहणेऽजादावपीत्त्वं स्यात्(), ततश्चेपङः प्रसज्येतेत्यनिष्टं रूपमापद्येत।
तस्मादनिष्टनिवृत्त्यर्थत्वाद्धल्ग्रहणस्य न युज्यते ज्ञापकत्वम्()? नैष दोषः; असिद्धत्वादेवेत्त्वस्येयङादेशो न भविष्यति। व्यवस्थार्थं तर्हि हल्ग्रहणं स्यात्(), असति हि तस्मिन्नीत्त्वस्यासिद्धत्वा दाल्लोपः,
आकारलोपस्यासिद्धत्वादीत्त्वमीति चक्रवद्व्यवस्था स्यात्()? एतदप्यप्रयोजनम्(), यदि व्यवस्थार्थं हल्ग्रहणं स्यात्(), नैवायं हल्ग्रहहँ कुर्वीत। अविशेषेणेकारमुक्त्वा तस्याजादौ लोपमपवादं विदध्यात्()।
तत्? कथमिदमस्तु "आतो लोप इटि च" (६।४।
६४) इति? ततः "धुमास्थागापाजहातिसाम्()"
६।४।६६ आकारलोपो भवतीटयजादौ च क्ङिति।
किमर्थमिदम्()? प्रत्ययमात्रे ध्वादीनां यदीत्त्वं वक्ष्यते, तस्यायमिट()जादौ च क्ङित्यपदादः, ततः "ईत्()"
६।४।६८ इतीत्त्वं भवति घादीनामनचि क्ङिति, ततः "एर्लिङि"
६।४।३७ "दान्यस्य संयोगादेः"
६।४।६८ "न ल्यपि"
६।४।६९, "मयतेरिदन्यतरस्याम्()"
६।४।७०; ततो यतीत्त्वं भवति--सोऽयमेव लगीयसा न्यासेन सिद्धे यद्धल्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः--"भवतीह विप्रतिषेधः" इति॥